वांछित मन्त्र चुनें

विश्वा॒ द्वेषां॑सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे॑ सन्व॒न्त्वा वसु॑ । शीष्टे॑षु चित्ते मदि॒रासो॑ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ॥

अंग्रेज़ी लिप्यंतरण

viśvā dveṣāṁsi jahi cāva cā kṛdhi viśve sanvantv ā vasu | śīṣṭeṣu cit te madirāso aṁśavo yatrā somasya tṛmpasi ||

पद पाठ

विश्वा॑ । द्वेषां॑सि । ज॒हि । च॒ । अव॑ च॒ । आ । कृ॒धि॒ । विश्वे॑ । स॒न्व॒न्तु॒ । आ । वसु॑ । शीष्टे॑षु । चि॒त् । ते॒ । म॒दि॒रासः॑ । अं॒शवः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ॥ ८.५३.४

ऋग्वेद » मण्डल:8» सूक्त:53» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:22» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4